13/09/2025
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनमन्थनपरिषदा ‘शास्त्रमन्थनम्’ इति नाम्नः चतुर्दशतमं व्याख्यानं सम्पन्नम्
नलबारी, १३/०९/२०२५(असमप्रदेश:) – कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्ततया आयोज्यमानायाः ‘शास्त्रमन्थनम्’ इत्यस्याः १०८-व्याख्यानमालायाः चतुर्दशतमं व्याख्यानं महापुरुषस्य श्रीमन्माधवदेवस्य तिरोभावतिथौ तस्य जीवनदर्शनविषयकव्याख्यानेन आभासीयमाध्यमेन सुष्ठुतया सम्पन्नम्।
अस्मिन् व्याख्याने मुख्यवक्ता आसीत् आउनीआटीविश्वविद्यालयस्य असमीयाविभागस्य सहायकाचार्या डॉ कुकी बरा महोदया। तया स्वभाषणे माधवदेवमहापुरुषस्य भक्तिपरम्परां तस्य दार्शनिकदृष्टिं च स्पष्टतया निरूप्य तस्य शंकरदेवेन सह मेलनम्, शिष्यत्वग्रहणं च सविस्तरं प्रतिपादितम्।तस्याः वचनानुसारं माधवदेवः प्रारम्भे शैवमतावलम्बी आसीत्। परन्तु महापुरुषशंकरदेवेन सह तस्य मेलनं तस्य जीवनस्य नवीनपरिणामकं क्षणम् अभवत्। शंकरदेवस्य उपदेशेन प्रेरितः सः अनन्यभक्तेः मार्गं स्वीकृत्य गुरुपादाश्रितः जातः। तेन आसीत् न केवलं भक्तिसंवर्धनम्, अपि तु शिष्यसमुदायस्य नैतिकसंस्कारविकासः अपि। डॉ बरा महोदया अतीव सुष्ठुतया प्रतिपादितवती यत् माधवदेवस्य रचनासु भक्तिरसः एव प्राधान्येन प्रवहति। तस्य ग्रन्थेषु नामघोषः इत्यादिषु दार्शनिकगम्भीरता भक्तिसम्पन्नता च एकत्र दृश्यते। तेन असमीयसाहित्ये भक्तिपरम्परा केवलं धार्मिककथने सीमिता न, अपि तु समाजसंस्कारस्य साधनम् अभवत्।
कार्यक्रमस्य अध्यक्षस्थानं विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लाद-रा. जोशी महोदयः स्वकीयया उपस्थित्या शोभयामास। तेन अपि महापुरुषमाधवदेवस्य विषये स्वविचारान् प्रस्तुत्य छात्राणाम् उत्साहवर्धनं कृतम्। तेन प्रतिपादितं यत् महापुरुषमाधवदेवः केवलम् असमस्य सन्तपुरुषः न, अपि तु अखिलभारतीयपरिप्रेक्ष्ये भक्तिसंस्कृतेः विश्वमान्यः दीपः। इतोऽपि
विभागाध्यक्षः डॉ रणजीतकुमारतिवारी महोदयः संक्षिप्ते भाषणे महापुरुषस्य सारभूतं तत्त्वं प्रकाशयामास। अस्मिन् अवसरे विश्वविद्यालयस्य कुलसचिवमहोदयः डॉ विकासभार्गवशर्ममहोदयोऽपि समुपस्थितः आसीत्।
अस्मिन् प्रसङ्गे भारतदेशस्य नानास्थानेभ्यः अध्यापकाः, शोधार्थिनः, शास्त्रजिज्ञासवः छात्राः च समुपस्थिताः। विभागस्य अध्यापकाः विभागाध्यक्षाश्च – डॉ सुधाकरमिश्रमहोदयः, डॉ रातुलबुजरबरुवामहोदयः, डॉ मल्लिका कलितामहोदया कमललोचनात्रेयमहोदयः, डॉ गुणिनशईकियामहोदयः, चम्पककलितामहोदयः, डॉ अर्चना देवीमहोदया, डॉ गणेशमिश्रमहोदयः, डॉ विवेकाचार्यमहोदयः च प्रमुखतया आसन्। एतेन सह सर्वदर्शनमन्थनपरिषदः अध्यक्षः श्री पुलक उपाध्यायः, सम्पादिका सुश्री जिमि डेका, विभागीयसहायिका आचार्या सुश्री लोपामुद्रा गोस्वामी, अतिथ्यध्यापिके सुश्री मयूरी काकती सुश्री सीमा वर्मन् च अपि कार्यक्रमे सहभागीबभूवुः।
कार्यक्रमस्य शुभारम्भः विभागीयच्छात्रेण गिरिराजशर्मणा वैदिकमङ्गलाचरणेन कृतः। ततः शोधच्छात्रा तपस्विनिराजकुमारीमहोदया सुन्दरं बरगीतं गायनकृत्वा भक्तिभावं वर्धयामास। संचालनं शोधच्छात्रेणैव च अतिथि-अध्यापकेन पुलक-उपाध्यायमहोदयेन सुष्ठुतया निर्वहितम्। अन्ते धन्यवादप्रस्तुतिः विभागीयातिथ्यध्यापिकायाः सुश्री सीमा वर्मन्महोदयया कृता। अन्तिमे शान्तिमन्त्रपाठेन कार्यक्रमस्य समापनं सम्पन्नम्।